Chapter (অধ্যায়): EPISTLES PAGE-396Page: 396 of 519


अच्युतानन्द: प्रतिदिनं सायाह्ने अल्मोडानगर्यां गीतादिशास्त्रपाठं जनानाहूय करोति। बहूनां नगरवासिनां स्कन्धावारसैन्यानां च समागमोऽस्ति तत्र प्रत्यहम् सर्वानसौ प्रीणाति चेति शृणोमि। "यावानर्थ" इत्यादि श्लोकस्य यो वङ्गार्थस्त्वया लिखितो नासौ मन्यते समीचीनः। "सति जलप्लाविते उदपाने नास्ति अर्थः प्रयोजनम्" इत्यसावर्थः।

यद्येवं भवेत्प्राकृतिको नियमः, जलप्लाविते भूतले सति जलपानं निरर्थकं केनचिदपि वायुमार्गेणाथवान्येन केनापि गूढेनोपायेन जीवनां तृष्णानिवारणं स्यात्, तदासावपूर्वोऽथः सार्थको भवितुमर्हेन्नान्यथा।

शङ्कर एवावलम्बनीय।

इयमपि भवितुमर्हति -

सर्वतः संप्लुतोदकेऽपि भूतले यावानुदपाने अर्थः तृष्णातुराणां (अल्पमात्र जलमलं भवेदित्यर्थः), - "आस्तां तावज्जलराशिः, मम प्रयोजनम् स्वल्पेऽपि जले सिद्धयति - एवं विजानतो ब्राह्मणस्य सर्वेषु वेदेषु अर्थः प्रयोजनम्। यथा संप्लुतोदके पानमात्रप्रयोजनम् तथा सर्वेषु वेदेषु ज्ञानमात्रप्रयोजनम्।

इयमपि व्याख्या अधिकतरं सन्निधिमापन्ना ग्रन्थकाराभिप्रायस्य -

उप्लावितेऽपि भूतले, पालाय उपादेयं पानाय हितं जलमेव अन्विश्यन्ति लोका नान्यत्। नानाविधानि जलानि सन्ति भिन्नगुणधर्माणि, उपप्लावितेऽपि भूमेस्तारतभ्यात्। एवं विजानन् ब्राह्मणोऽपिविविधज्ञानोपप्लाविते वेदाख्ये सब्दसमुद्रे संसारतृष्णानिवारणार्थे तदेव गृह्णीयात् यदलं भवति निःश्रेयसाय। ब्रह्मज्ञानं हि तत्।

इति शं साशीर्वादं विवेकानन्दस्य।

TRANSLATION:

                                                                                      Almora,

          1st June, 1897

Dear Shuddhananda,

Glad to know from your letter that all are doing well there, and to go through the news in detail. I too am in better health; the rest you will know from Dr. Shashi

 



Foot Note: